This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१२०
 
www.kobatirth.org.
 
काव्यमाला ।
 
कति पल्लविता न पुष्पिता वा

तरवः सन्ति न संततं वसन्ते ।

जगतीविजयाय पुष्पकेतोः
 
Acharya Shri Kailassagarsuri Gyanmandir
 

सहकारी सहकार एक एव ॥ ९९ ॥

 
यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो

दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः ।

स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः

सोत्कर्षेषं फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१००॥

 
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः

प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् ।

यं वीक्ष्य स्मितवक्त्रमुद्गतमहासंतोषमुल्लासित-

स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः ॥ १०१ ॥

 
सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि

ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः ।

हा दैवेति वचो विना न ददते वज्राणि वज्राकरा-

स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ॥ १०२ ॥

 
छाया फलानि मुकुलानि च यस्य विश्व-

माह्लादयन्ति सहकारमहीरुहस्य ।

आमृष्य तस्य शिखया नवपल्लवानि
 

ध्नान्थासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥

 
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता
 

रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।

सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते

लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥

 
यावत्फलोदयमुखः सहकार जात

स्तावच्च कण्टककुलैः परिवेष्टितोऽसि ।
 
For Private And Personal Use Only