This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१२०
 
www.kobatirth.org.
 
काव्यमाला ।
 
कति पल्लविता न पुष्पिता वा
तरवः सन्ति न संततं वसन्ते ।
जगतीविजयाय पुष्पकेतोः
 
Acharya Shri Kailassagarsuri Gyanmandir
 
सहकारी सहकार एक एव ॥ ९९ ॥
यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाकुरो
दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः
सोत्कर्षे फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१००॥
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः
प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् ।
यं वीक्ष्य स्मितवमुद्गतमहासंतोषमुल्लासित-
स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थवजाः ॥ १०१ ॥
सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि
ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः ।
हा दैवेति वचो विना न ददते वज्राणि वज्राकरा-
स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ॥ १०२ ॥
छाया फलानि मुकुलानि च यस्य विश्व-
माह्लादयन्ति सहकारमहीरुहस्य ।
आमृष्य तस्य शिखया नवपल्लवानि
 
मध्नासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता
 
रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।
सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते
लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥
यावत्फलोदयमुखः सहकार जात
स्तावच्च कण्टककुलैः परिवेष्टितोऽसि ।
 
For Private And Personal Use Only