This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
समयवशेन यदद्य फलं जातं तव सहकार ।

भ्रातस्तद्भवतार्तजने कर्तव्यो न नकारः ॥ ९२ ॥

 
सौरभ्यगर्भमकरन्द कर
करम्बितानि
 
Acharya Shri Kailassagarsuri Gyanmandir
 

पङ्केरुहाण्यपि विहाय समागतस्त्वाम् ।

संसारसार सहकार तथा विधेयं
 

येनोपहासविषयो न भवेद्विरेफः ॥ ९३ ॥
 

 
उत्फुल्लरम्य सहकार रसालबन्धो
 

कूजत्पिकावलिनिवास तथा विधेहि ।

गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो

नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥

 
येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदा-

स्ते भ्राम्यन्ति फलाद्बहिर्बहिरहो दृष्ट्वा न संभाषते ।

ये कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे

धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥

 
न तादृक्क
र्बूरे न च मलयजे नो मृगमदे

फले वा पुष्पे वा तव भवति यादृक्परिमलः ।

परं त्वेको दोषस्त्वयि खलु रसालेऽधिक गुणे
 

पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ९६ ॥

 
यदपि किल वसन्ते वीरुधः शाखिनो वा
 

फलकुसुमसमृद्ध्या शोभमाना भवन्ति ।

तदपि युवजनानां प्रीतये कोकिलोऽसा
 

वभिनवकलिकालीभारशाली रसालः ॥ ९७ ॥

 
उत्तंसकौतुकरसेन विलासिनीनां

लूनानि यस्य नखरैरपि पल्लवानि ।

उद्यानमण्डनतरो सहकार सत्व-

मङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥
 
For Private And Personal Use Only