This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
११८
 
www.kobatirth.org.
 
काव्यमाला ।
 
अन्तःप्रतप्तमरुसैकतदह्यमान-
मूलस्य चम्पकतरोः क्व विकाशचिन्ता ।
प्रायो भवत्यनुचितस्थितदेशभाजां
श्रेयः स्वजीवपरिपालनमात्रमेव ॥ ८४ ॥
केनापि चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्ररूढनवशाखविवृद्धिलोभा-
Acharya Shri Kailassagarsuri Gyanmandir
 
गोभग्नवाटघट नोचितपल्लवोऽसि ॥ ८५ ॥
 
उद्यानपाल कलशाम्बुनिषेचनाना-
मेतस्य चम्पकतरोरयमेव कालः ।
तस्मिंश्च धर्मनिहतेऽपि घनाम्बुनाथ
संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥
एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
 
संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदय-
नामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥
 
(इति चम्पकान्योक्तयः ।)
 
अथ सहकारान्योक्तयः ।
 
गाता कोकिल एव ज्ञाता पुनरेव सहकारः ।
 
यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ।॥ ८८ ॥
यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः ।
तदपि स एव रसालः कोकिलहृदये सदा वसति ॥ ८९ ॥
मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् ।
मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥
मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः ।
यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ॥
१. 'अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इयपि पाठ:.
 
For Private And Personal Use Only