This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने
येषां गन्धगुणः सदापि वसति प्रायेण पुष्पश्रिया ।
प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना
 
योऽयं गन्धगुणस्त्वया प्रकटितः कासाविह प्राप्यते ॥ ७६ ॥
मलओस चन्दणुचिय नइ मुह हीरन्त चन्दणदुमोहो ।
पभट्टं पिहु मलयाउ चन्दणं जायइ महग्धम् ॥ ७७ ॥
 
( इति चन्दनवृक्षान्योक्तयः ।)
 
अथ चम्पकान्योक्तयः ।
 
साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि ।
लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥
कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे
 
माम्लासीः परितो विलोकय तरुन्कस्तेऽधिरूढस्तुलाम् ।
कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता-
मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥
सौभाग्यं कुसुमावलीषु विपुल सौन्दर्यमर्यादया
 
पुष्पं चम्पक निर्मितं च विधिना स्वर्णातिवर्णाकृति ।
गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं
 
ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्गं न धत्ते त्वया ॥ ८० ॥
रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः ।
कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥८१॥
यन्नादृतस्त्वमलिना मलिनाशयेन
 
किं तेन चम्पक विषादमुरीकरोषि ।
विश्वाभिरामनवनीरदनीलवेषाः
 
केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥
सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु ।
इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः॥८३॥
 
For Private And Personal Use Only