This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा
 

नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥
 

 
एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं

ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।

माकन्दादपहृत्य पङ्कजवनादुद्भूधूय कुन्दोदरा-

दुद्भ्राम्यद्द्विपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ॥

 
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।

निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥

 
धिक्चेष्टितानि परशो परिशोचनीयं

बालप्रवालमलयादिरुहद्रुहस्ते ।

निर्भिद्यमानहृदयोऽपि महाप्रभावः
 

स त्वन्मुखं पुनरभी: सुरभीकरोति ॥ ७९ ॥
बा

 
वा
सः शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह

प्रेङ्खत्क्षारपयोधिवीचिभिरभदुद्भूतिसेकक्रिया ।

जानीमो न वयं प्रसीदतु भवाञ् श्रीखण्ड तत्कथ्यतां

कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ॥ ७२ ॥

 
आमोदैस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणां
 

साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्म ।

किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
 

व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ॥

 
मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः ।

नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वरैः समन्तात् ॥ ७४ ॥

 
भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं
 

लग्नं तीरवने वनेचरशतैर्नीतं ततः खण्डितम् ।

विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं
 

न्दन्ते कटरे(?)विपत्खपि गुणैः को नाम नो पूज्यते ॥७५॥
 
For Private And Personal Use Only