This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा
 
नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥
 
एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं
ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।
माकन्दादपहृत्य पङ्कजवनादुद्भूय कुन्दोदरा-
दुद्भ्राम्यद्विपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ॥
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥
धिक्चेष्टितानि परशो परिशोचनीयं
बालप्रवालमलयादिरुहद्रुहस्ते ।
निर्भिद्यमानहृदयोऽपि महाप्रभावः
 
स त्वन्मुखं पुनरभी: सुरभीकरोति ॥ ७९ ॥
बासः शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह
प्रेक्षारपयोधिवीचिभिरभदुद्भूतिसेकक्रिया ।
जानीमो न वयं प्रसीदतु भवाञ् श्रीखण्ड तत्कथ्यतां
कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ॥ ७२ ॥
आमोदैस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणां
 
साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्म ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
 
व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ॥
मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः ।
नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वरैः समन्तात् ॥ ७४ ॥
भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं
 
लग्नं तीरवने वनेचरशतैनीतं ततः खण्डितम् ।
विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं
 
बन्दन्ते कटरे(?)विपत्खपि गुणैः को नाम नो पूज्यते ॥७५॥
 
For Private And Personal Use Only