This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
मृदूनां खादूनां लघुरपि फलानां न विभव-
स्तवाशोक स्तोकः स्तबकमहिमा सोऽप्यसुरभिः ।
 
यदेतन्नो तन्वीकरचरणलावण्यसुभगं
 
प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥
 
( इति किकेल्लिपादपान्योक्तयः ।)
 
अथ चन्दनान्योक्तयः ।
 
सन्त्येव मिलिताकाशा महीयांसो महीरुहः ।
तथापि जगतश्चित्तनन्दनश्चन्दनद्रुमः ॥ ६३ ॥
के के तमालफलुसालरसालसाल-
हिन्तालतालकृतमालगणा न सन्ति ।
एकेन तेन वनमण्डनचन्दनेन
 
संवासितं वनमिदं मलयाचलस्य ॥ ६४ ॥
कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा-
मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु ।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
 
संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥
अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे
मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।
सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः
 
सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥६६॥
केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
 
केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।
धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
 
११५
 
For Private And Personal Use Only
 
शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् ॥ ६७ ॥
आतश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा
गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः ।