This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 

 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
खगात्पञ्चाक्षतिर्यश्चः परिच्छेदे तृतीयके ।
त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥

पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे ।
जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥

सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे ।
अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥
 
अथ प्रतिद्वारवृत्तानि ।
तत्रादिमपरिच्छेदे सुबोधार्थीथं विशेषतः ।

वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥

सूर्यस्यान्योक्तयः पूर्व सामान्येन्दुसदुक्तयः ।
वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥

द्वितीया द्विजराजोक्ती राकारातिकरोक्तयः ।
नैनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ॥

ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः ।
सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥

प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिध्रुवोक्तयः ।
कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ॥
 
अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः ।
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥

रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः ।

न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६॥

[^१]
खद्योतो विद्योतते तावद्यावन्नोदयते शशि: ।

उदिते तु सहस्रांशेशौ न खद्योतो न चन्द्रमा ॥ ३७ ॥
 
[^१.] 'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न
चन्द्रमाः ॥' इत्यपि पाठान्तरम्.
 
For Private And Personal Use Only