This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
११०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।

यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥

 
कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः ।

कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥

 
शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः ।
 

स एव विरल: शाखी यत्र विश्रमते करी ॥ २७ ॥

 
वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः ।

स पुण्यशाखी क्वचिदेक एव यस्याश्रयं वाञ्छति वारणेन्द्रः ॥ २८॥

 
एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्ब
 

केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुञ्जे ।

कोऽसौ धन्यः कथय सुकृती पादपोऽश्भ्रंलिहश्री-

र्यस्य च्छायां श्रयति सहसा आतपार्त: करीन्द्रः ॥ २९ ॥

 
भीष्मग्रीष्मखरांशुतापमसमं वर्षाम्बुतापक्लमं

भेदच्छेदमुखं कदर्थनमलं मर्त्यादिभिर्निर्मितम् ।

सर्वग्रासिद वानलप्रसृमरज्वालोत्करालिङ्गनं

हंहो वृक्ष सहख जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥

 
किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया

छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।

हे सद्वृक्ष सहख संप्रति सखे शाखाशिखाकर्षण-

क्षोभामोटनभञ्जनानि जनतः खैस्वैरेव दुश्चेष्टितैः ॥ ३१ ॥

 
आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः

पुष्पैः षट्टुरणाः
फलैः शकुनयो घर्मार्दिताश्छायया ।

स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-

स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदान्ये द्रुमाः ॥ ३२ ॥

 
कुर्वन्षट्पदमण्डलस्य कुसुमामोदप्रदानोन्मुखं

संप्रीणन्प्रसभं मनोहरफलखास्वादार्पणादध्वगान् ।
 
For Private And Personal Use Only