This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१०८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
सप्तमः परिच्छेदः ।

परज्योतिःस्वरूपाय पराय परमात्मने ।
 

नमः श्रीपार्श्वनाथाय श्रेयःश्रेणीविधायिने ॥ १ ॥

 
कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव ।

मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ २ ॥

 
भजध्वमेनं भो भव्याः श्रीकामाय जिनेश्वरम् ।

रम्यदं तं सुखागारं मनोभवभवप्रभम् ॥ ३ ॥

 
भववारांनिधौ कुम्भभवं बोधितसत्सभम् ।

भगवन्तं जराजन्मरोगहं चित्तजं हरम् ॥ ४ ॥

 
द्वाभ्यां खड्गबन्धचित्रम् ।

श्रमणप्रकरैर्वन्द्य सद्यस्तव पदौ मम ।
 

महानन्दपदं दत्तां त्रैशलेययशोधर ॥ ५ ॥

 
हलवन्धचित्रम् ।
 

 
धन्यास्त एव देवार्थं ये त्रिसंध्यं पदद्वयम् ।

आराधयन्ति विधिवज्जन्मभाजोऽनिशं तव ॥ ६ ॥

 
सज्ज्ञानमञ्जुमाणिक्यवररोहणभूधरम् ।
 

वन्दामहे विश्ववन्द्यं साधुश्रीवन्तनन्दनम् ॥ ७ ॥

 
अथ प्रतिद्वारवृत्तानि ।
 

 
सांप्रतं सुखबोधाय परिच्छेदे च सप्तमे ।

चित्रानुप्रासयमकगुणालंकारभासुरे ॥ ८ ॥

 
विचक्षणजनश्रेणीहर्षोत्कर्षकृते मया ।
 

सरलानुक्रमणिका प्रतिद्वारस्य प्रोच्यते ॥ ९ ॥ (युग्मम् )
 

 

 
सामान्यपादपान्योक्तिरशोकतरुपद्धतिः
 

चन्दनोक्तिश्चम्पकोक्तिर्माकन्दोक्तिर्मनोरमा
 
॥ १० ॥
 

 
काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा(?) ।

पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ११ ॥
 
For Private And Personal Use Only