This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
फलाढ्याः सर्वेषामुपक्कृतिकृतस्तेऽपि तरवो

यदेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥

 
रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं

ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः ।

कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभव-

न्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥

 
अथ प्रदीपान्योक्तयः ।

दैवादस्तं गते सूर्ये त्वं चेल्लोकैः पुरस्कृतः ।
 

मा दीप मलिनोद्दागारैः सद्गेहानि कलङ्कय ॥ ९९ ॥

 
दीपो वातभयान्नीतः कामिन्या वसनान्तरे ।

निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १०० ॥

 
तावद्दीपय दीपममुं यावद्द्रजनिविरामः ।

भानुश्चेदुदया भिमुखस्तत्किं तव गुणधाम ॥ १०१ ॥

( इति प्रदीपान्योक्तयः ।)
 

 
अथ दावानलान्योक्तयः ।
 
१०५
 
For Private And Personal Use Only
 

यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः ।

दहतस्तां वंशालीं को वनवहेह्ने विशेषस्ते ॥ १०२ ॥

 
हे दावानल शैलाग्रवासिनः साधु शाखिनः ।

मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥

 
दुर्दैवप्रभव प्रभञ्जन जवादुद्भुभूतभूमीरुहा-

नेतान्सत्वगुणाश्रयानकरुणं प्लुष्यन्किमुन्माद्यसि ।

ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्दग्धा अपि

द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ १०४ ॥

 
अभ्युन्नतेऽपि जलदे जगदेकसार
 

साधारणप्रणयहारिणि हा यदेते ।

उल्लासलास्यललितं तरवो न यान्ति
 

हे दावपावक स तावक एव दोषः ॥ १०५ ॥
 
२३