This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।

इदमपि [च] [^१]सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥

 
एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाहल-

क्रीडत्कुङ्कुमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।

केनेदं विकसत्कुशेशयकुटीकोणक्कणत्षट्पद-
Acharya Shri Kailassagarsuri Gyanmandir
 

श्रेणीप्रीणितपान्थमुज्ज्वल जलं चक्रे विशालं सरः ॥ ८५ ॥

 
माद्यद्दिग्गजदानलिप्तकरट प्रक्षालनक्षोभिता

व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।

कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन-

स्तस्याप्येकबकप्रचारकलुषं जातं यदन्तर्जलम् ॥ ८६ ॥

 
स्तोकाम्भः परिवर्तिताङ्गशफरग्रासार्थिनः सर्वतो
 

लप्स्यन्ते बकटिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् ।

सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्माकरे
 

तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क यास्यन्त्यमी ॥ ८७ ॥

 
रे पद्माकर यावदस्ति भवतो मध्यं पयःपूरितं

तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय ।

पश्चात्त्वं समटद्कोटचटुलत्रोणीपुटव्याहति-

त्रुट्यत्कर्कटकर्परव्यतिकरैर्निन्दास्पदं यास्यसि ॥ ८८ ॥
 

 
अथ पद्मसरसः ।
 

क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां
मद्नु

मद्रु
र्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः ।

भेकाः सन्तु बका वसन्तु चरतु स्वच्छन्दमाटिस्तटे

हंहो पद्मसरः कुतः कतिपयै र्हेसैर्विना श्रीस्तव ॥ ८९ ॥

( इति तटाकान्योक्तयः ।)
 

 
[^
१.] 'इदमति सुलभं चाम्भो' इत्यपि पाठः,
 
For Private And Personal Use Only