This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
शश्वत्परोपकृतिकर्मपरा वचोमि-
र्वारांभरैर्घनघटा इव काननानि ॥ १८ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 
कर्णेजपा अपि सदा कुटिलखभावा
दुष्टाशया निरभिसंधितवैरिभूताः ।
सौहार्दहृष्टहृदया मयि सन्तु येषां
 
जिह्वापटुर्विनिमयेषु गुणा गुणानाम् ॥ १९ ॥
किं वानया पिशुनया च न यापि मे स्या-
न्मां स्वीकरोति यदि साधुजनो गुणज्ञः ।
पूर्णेन्दुना कुवलयं प्रतिबोधितं स
 
त्संमीलितं भवति किं तमसो वितानैः ॥ २० ॥
श्रीमत्तपागणनभोङ्गणभासनैक-
भास्वत्प्रभाभरसुभासुरभव्यभानोः ।
संदृभ्यते विजयराजगुरोर्नियोगा-
न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥
 
शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च ।
अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥
यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तं हृदयं प्रकामम् ।
निधाय कण्ठे विशत प्रबुद्धा मुक्तावली मौक्तिकमालिकावत् ॥ २३ ॥
दोषैरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् ।
परिस्फुरच्चारुविचित्रवर्णी विशञ्चितां चित्रकरीं कवीनाम् ॥ २४ ॥
 
(युग्मम्)
 
अथ मूलद्वारवृत्तानि ।
अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
 
अन्योक्तिसूक्तमुक्तार्ली समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥
देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः ।
स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्च द्वितीयके ॥ २६ ॥
 
For Private And Personal Use Only