This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अन्नो कोsवि सहावो समुद्दगम्भीरयाइ भावस्स ।

अमयं विसंहुआसो समयं विय जेण धरियाइम् ॥ ६७ ॥

 
जह गम्भीरो जह रयण निब्भरो जहय निम्मलच्छाओ ।

ता किं विहिणा सो सर सवाणओ जलनिहीनकओ ॥ ६८ ॥

 
खलजणसहसंगेणं पडन्ति सुहणाण मत्थए णत्था ।

दहवयणकयविरोहे रयणनिहीबन्धणं पत्तो ॥ ६९ ॥

 
रयणेहिं निरन्तर पूरियस्स रयणायरस्स नहु गव्वम् ।

करिणो मुत्ताहलसंभएवि मयभिम्भला दिट्ठी ॥ ७० ॥
 

इति सामान्यसमुद्रान्योक्तयः ।
 
For Private And Personal Use Only
 
१०१
 

 
अथ क्षीरसमुद्रस्य ।
 

माणिक्याकर पारिजातजनक श्रीकान्तलीलागृहं

पीयूषाङ्कनिवास वासवनदीवैदग्ध्यदीक्षागुरो ।

धिक्क्षीराम्बुनिधे तदेवमखिलं[^१] रूपं यदभ्यागतो

दिग्वासा क्षुधितश्चराचरगुरुर्देवो विषं पायितः ॥ ७१ ॥

 
अथ सामान्यनद्यन्योक्तयः ।

कतिपयदिवसस्थायी[^२] पूरो दूरोन्नतोऽपि भविता ते ।

तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ७२ ॥

 
शरदि रविरश्मितप्ता बिभ्राणाः शोषमतिशयग्लपिताः ।

ज्वरिता इव लक्ष्यन्ते लङ्घनयोग्या महासरितः ॥ ७३ ॥

 
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम् ।

वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घयासि ॥ ७४ ॥

 
आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।

नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ॥ ७५ ॥

 
मलयस्य महागिरेरपत्यं तदनु भ्रातृमती पटीरवृक्षैः ।
 

अपि सैव महोदधेः कलत्रं तटिनी मौक्तिकसूः किमत्र चित्रम् ॥ ७६ ॥

 
[^
१.] 'तवेदम्' इति स्यात्.
[^
]. 'यास्यति जलभरकालस्तव च समृद्धिर्लघीयसी भविता'

इति वा पाठ:.