This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अन्नो कोsवि सहावो समुद्दगम्भीरयाइ भावस्स ।
अमयं विसंहुआसो समयं विय जेण धरियाइम् ॥ ६७ ॥
जह गम्भीरो जह रयण निब्भरो जहय निम्मलच्छाओ ।
ता किं विहिणा सो सर सवाणओ जलनिहीनकओ ॥ ६८ ॥
खलजणसहसंगेणं पडन्ति सुहणाण मत्थए णत्था ।
दहवयणकयविरोहे रयणनिहीबन्धणं पत्तो ॥ ६९ ॥
रयणेहिं निरन्तर पूरियस्स रयणायरस्स नहु गव्वम् ।
करिणो मुत्ताहलसंभएवि मयभिम्भला दिट्ठी ॥ ७० ॥
 
इति सामान्यसमुद्रान्योक्तयः ।
 
For Private And Personal Use Only
 
१०१
 
अथ क्षीरसमुद्रस्य ।
 
माणिक्याकर पारिजातजनक श्रीकान्तलीलागृहं
पीयूषाङ्कनिवास वासवनदीवैदग्ध्यदीक्षागुरो ।
धिक्क्षीराम्बुनिधे तदेवमखिलं रूपं यदभ्यागतो
दिग्वासा क्षुधितश्चराचरगुरुर्देवो विषं पायितः ॥ ७१ ॥
अथ सामान्यनद्यन्योक्तयः ।
कतिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते ।
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ७२ ॥
शरदि रविरश्मितप्ता बिभ्राणाः शोषमतिशयग्लपिताः ।
ज्वरिता इव लक्ष्यन्ते लङ्घनयोग्या महासरितः ॥ ७३ ॥
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम् ।
वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घयासि ॥ ७४ ॥
आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।
नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ॥ ७५ ॥
मलयस्य महागिरेरपत्यं तदनु भ्रातृमती पटीरवृक्षैः ।
 
अपि सैव महोदधेः कलत्रं तटिनी मौक्तिकसूः किमत्र चित्रम् ॥ ७६ ॥
१. 'तवेदम्' इति स्यात्. २. 'यास्यति जलभरकालस्तवच समृद्धिलघीयसी भविता'
इति वा पाठ:.