This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अस्तंगते निजरिपावपि कुम्भयोनौ
संकोचमाप जलधिर्न तु
तु
गम्भीरतागुणचमत्कृतविष्टपानां
 
Acharya Shri Kailassagarsuri Gyanmandir
 
माद्यति स्म ।
 
शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ५० ॥
स्वच्छन्दं मन्दराद्रिर्भ्रमयतु मरुतस्ते च मुष्णन्तु सारं
दुर्वारं वारिदाली पिबतु दहतु वा वहिरौर्वः सगर्वः ।
यादःसंदर्भगर्भैः पृथुतरगगनोत्सङ्गरङ्गैस्तरङ्गै-
र्निर्मर्यादं समुद्र त्वयि चलति पुनर्विश्वमेतत्कुतस्त्यम् ॥ ५१ ॥
कृष्णाय प्रतिपादयन्स्वकमलां शीतद्युति शंभवे
पीयूषं दिविषद्गणाय दिविषन्नाथाय दन्तीश्वरम् ।
धिग्धिक्प्रत्युपकारकातरधियः सर्वानिमानम्बुधे
यैस्त्रातोऽसि न कुम्भसंभवमुनेर्गण्डूषभावं भजन् ॥ ५२ ॥
पातालं वसतिः परिच्छदपदं शेषादयः पन्नगा
 
जामाता जगदीश्वरो मधुरिपुः पत्नी नभोनिम्नगा ।
कन्यैका कमला धनानि मणयः पुत्रौ शशाङ्कामृतौ (ते)
निःसामान्यमहो महार्णव तव श्लाघ्या कुटुम्बस्थितिः ॥ ५३ ॥
गम्भीरस्य महाशयस्य सहजस्वच्छस्य सेव्यस्य ते
 
१. 'सवर्गः' इति वा.
 
सर्व साध्विदकूप (?) किंतु तदपि स्तोकं किमप्युच्यते ।
पात्रं दूरमधः करोति गुणवद्यः सोऽपि तृष्णाक्लम:
प्रौढः प्रोन्मथने भवानपि पर्यत्तेन लज्जामहे ॥ ५४ ॥
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयघे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावै मुख्यलब्धायशो-
भारस्योद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ ५५ ॥
स्थानं कल्पतरोः सुधाजनिख निश्चिन्तामणेः कोशभूः
 
शय्यागारमजस्य मातृसदनं लक्ष्म्याः प्रपाम्भोमुचाम् ।
 
For Private And Personal Use Only