This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
तथा दावानलान्योक्तिर्धूमान्योक्तिर्जनप्रिया ।

पवनान्योक्तयो ज्ञेया लब्धवर्णगणैर्मुदा ॥ ११ ॥

 
अथ कायाधिकारपद्धतौ प्रथमं जलान्योक्तयः ।

शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता
 

किं ब्रूमः शुचितां व्रजन्त्यशुचयः सङ्गेन यस्यापरे ।

किं वातः परमस्ति ते स्तुतिपदं त्वं जीवनं देहिनां

त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १२ ॥

 
ब्जं त्वज्जमथाब्जभूस्तत इदं [^१]ब्रह्माण्डमत्राभव-

द्विश्वं स्थावरजङ्गमं तदखिलं त्वन्मूलमित्थं पयः ।

धिक् त्वां चौर इव प्रयासि शनकैर्निःसृत्य जालान्तरे

बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ १३ ॥

 
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते

मुक्ताकारतया तदेव नलिनीपत्र स्थितं राजते ।

खातौ सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते

प्रायेणाधम मध्यमोत्तमगुणाः संसर्गतो यान्ति ते ॥ १४ ॥

 
स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं

पुत्रालिङ्गनवत्तथा च मधुरं बालस्य संजल्पवत् ।

एलोशीरलवङ्गचन्दनरसं कर्पूरपारीमिल-

त्
पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ १५ ॥
 

( इति जलान्योक्तयः ।)
 

 
अथ समुद्रान्योक्तयः ।
 

नावज्ञया न वैदग्ध्यादुदधेर्महिमैव सः ।

यत्तीरपङ्कममानि महारत्ग्नानि महारत्नानि शेरते ॥ १६ ॥
रखै

 
रत्नै
रापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः ।
 

मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ १७ ॥
 

 
[^१]
. 'ब्रह्माण्डमण्डात्पुनर्विश्वं' इति पाठ.
 
For Private And Personal Use Only