This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
षष्ठः परिच्छेदः ।
 

 
विलोकयन्ति ये खास्वामिंस्त्वदीयं दनाम्बुजम् ।

ते भवन्ति भवत्तुल्या विभूत्या पार्श्वतीर्थप ॥ १ ॥

 
यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च ।

नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः ॥ २ ॥

 
स्वस्तिक बन्धचित्रम् ।
 

 
भद्राय मम वामेय भव त्वममलद्युतिः ।

भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥

 
सिद्धयेऽस्तु महावीर महावीरजगद्विभुः ।

यो विजित्य रणे रागाधरीन्वत्व्रे जयश्रियम् ॥ ४ ॥

 
बीजपूराकृतिचित्रम् ।
 

देव त्वं संपदं धीर देयाः कल्याणसागर ।

देवेन्द्रार्चितपत्सार देशनो ज्ञातजादर ॥ ५ ॥

 
रीत्यन्तरेण मुरजबन्धचित्रम् ।

नित्यनम्र सुपर्वेश सुखाय शुभदायकः ।

वर्धमानवरोदार रदादार सतां भव ॥ ६ ॥

 
श्रीमत्तपागच्छस्वच्छसुरशैलसुरद्रुमम् ।

विजयानन्दसूरीशं स्वगुरुं [^१]प्रणिध्महे ॥ ७ ॥

 
अथ प्रतिद्वारवृत्तानि ।
 

 
अथाभिव्यक्तये ब्रूमः प्रतिद्वारान्यथाक्रमम् ।

स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥

 
आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।

क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ९ ॥

 
स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः ।

कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥

 
[^
१.] प्रणिधानविषयीकुर्महे आयाम इत्यर्थः
 
For Private And Personal Use Only