This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
षष्ठः परिच्छेदः ।
 
विलोकयन्ति ये खामिंस्त्वदीयं बदनाम्बुजम् ।
ते भवन्ति भवत्तुल्या विभूत्या पार्श्वतीर्थप ॥ १ ॥
यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च ।
नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः ॥ २ ॥
स्वस्तिक बन्धचित्रम् ।
 
भद्राय मम वामेय भव त्वममलद्युतिः ।
भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥
सिद्धयेऽस्तु महावीर महावीरजगद्विभुः ।
यो विजित्य रणे रागाधरीन्वत्रे जयश्रियम् ॥ ४ ॥
बीजपूराकृतिचित्रम् ।
 
देव त्वं संपदं धीर देयाः कल्याणसागर ।
देवेन्द्रार्चितपत्सार देशनो ज्ञातजादर ॥ ५ ॥
रीत्यन्तरेण मुरजबन्धचित्रम् ।
नित्यनम्र सुपर्वेश सुखाय शुभदायकः ।
वर्धमानवरोदार रदादार सतां भव ॥ ६ ॥
श्रीमत्तपागच्छखच्छसुरशैलसुरद्रुमम् ।
विजयानन्दसूरीशं स्वगुरुं प्रणिध्महे ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
 
अथाभिव्यक्तये ब्रूमः प्रतिद्वारान्यथाक्रमम् ।
स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥
आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
क्षीरनीरनिधेरुक्तिर्नयुक्तिर्जाह्नव्युक्तयः ॥ ९ ॥
स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः ।
कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥
१. प्रणिधानविषयीकुर्महे आयाम इत्यर्थः
 
For Private And Personal Use Only