This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
९२
 
www.kobatirth.org.
 
काव्यमाला ।
 
अये मुक्तारत्न प्रचल बहिरुद्योतय गृहा-

नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान् ।

किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे
 

महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ५३ ॥
 

( इति मौक्तिका न्योक्तयः ।)
 
अथ सुवर्णस्य ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ पित्तलस्य ।
 
( इति मौक्तिका न्योक्तयः ।)
 

 
हा हेम किं न तत्रैव विलीनो दहनोदरे ।

पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः ॥ ५४ ॥

 
अग्निदाहे न मे दुःखं न दुखं ग्रावघर्षणे ।

एकमेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ५५ ॥
 

( इति सुवर्णन्योक्तयः ।)
 

 
अथ पित्तलस्य
 
रे रङ्ग हेमकलया तुलितोऽसि नूनं
 

मानं जहीहि किमु पश्यसि नो विशेषम् ।

खर्णं हि रत्नखचितं नृपशेखरेषु
 

त्वं पाप पामरवधूचरणेषु लीनः ५६ ॥

 
धूलिर्मूलपदार्थसार्थजननी स्तम्भाद्यवष्टम्भदा
 

लेखाश्लेषकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया ।

अग्रे [^१]गन्धमधोः शिशोः सुखकृतिः कालत्रयेऽपि स्थिरा

तस्माद्धूलिसमं न चारितस्ति किमपि क्षेप्या मुखे पापिनाम् ॥५७॥

 
इति श्रीमत्तपागच्छाधिराजश्री

गौतमगणधरोपमगुणसमाज सकलभहाट्टरकवृन्दवृन्दारक-

वृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-

पण्डित हंस विजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां पृथ्वीकायिका-

न्योक्तिनिरूपकः पञ्चमः परिच्छेदः ॥ ५ ॥
 

 
[^
१.] कस्तूरिकानाम गन्धधूलिः, षण्डनाम मधुधूलिः, तेन गन्धमधोरप्ग्रे स्थिता । प्राधान्य

ख्यापनार्थमेतत्कथनमिति,
 
For Private And Personal Use Only