This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
शिवश्रिये श्रीचरमो जिनेशो भूयाद भिज्ञाननिभेन नूनम् ।

स्तम्बेरमारातिरवाप्तवान्किकिं मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥

 
श्रीवर्धमानः स्तात्सिद्ध्यै वर्धमानसुखप्रदः ।

सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥

 
[^१]
चिदानन्दद्रुकन्दाय सर्वातिशयशालिने ।

नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥

 
भाषा सुभाषां मे दद्याद्भूरिभूषणभासुरा ।

सिन्दूर पूरन्यत्कारकारिहारिकराम्बुजा ॥ १९ ॥
श्री

 
श्री
इन्द्रभूतिं वसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् ।

श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ ।
 

 
शत्रुंजयादिसत्तीर्थकरमोचनकारकम् ।

प्रतिवत्सरषण्मासजीवाभामारिप्रवर्तकम् ॥ १३ ॥
 

 
श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् ।
 

श्रीहीरविजयाह्वानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्)
 

 
श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् ।

तपागणपयोजन्मपयो जन्म सुहृत्त्विषम् ॥ १५ ॥
 

 
सूरि[^२]श्रीविजयानन्दगुरुं गुरुगुणैर्गुरुम् ।

सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवें ॥ १६ ॥ (युग्मम्)
 

 
श्रीसोमसोमविजयाभिधवाचकनायकम् ।

रङ्गद्वैराग्यसद्ङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥
 

 
ते सज्जनाः किल भवन्तु मम प्रसन्ना

ये प्रीणयन्ति जै[^३]जगतीजनतामनांसि ।
 

 
[^
१.] चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव दुर्बुद्रुर्द्रुमश्चिदानन्दःदद्रुः तस्य कन्दे

मूलविशेषः यद्वा कं पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः,

तस्मै 'कन्दोऽब्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः .
[^
२.] अयं श्रीशब्दो महत्त्वप्र

तिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते,
[^
३.] 'जगती विष्टपे भूम्याम्' इति विश्वः.
 
For Private And Personal Use Only