2025-12-15 03:21:43 by akprasad
This page has been fully proofread twice.
<page>
<verse text="A" n="23">येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले
दोर्मूले कुचमण्डले च कुरुते रङ्गं कुङ्गीदृशाम्॥२३॥
</verse>
<verse text="A" n="24">शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे-
त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः।
तत्किं मीलितमम्बुजैर्विदलितं किं दन्ति[^१]दन्ताङ्कुरै-
र्भङ्ग: किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः॥२४॥
</verse>
<verse text="A" n="25">झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां
क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः।
एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे
शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः॥२५॥
</verse>
<verse text="A" n="26">येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो
यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः।
तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति-
र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः॥२६॥
</verse>
<verse text="A" n="27">अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा-
त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः।
सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि[^२]-
स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥
</verse>
<verse text="A" n="28">रोहत्सौरभविभ्रमाणि कमला[^३]सद्मानि पद्माकरे
पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु नुतिः।
तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि
त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः[^४]॥२८॥
[^</verse>
<footnote text="A" mark="१] ">चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः 'कवाटिदन्तैर्विस्फोटश्चन्द्र-
कान्तै सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्ञयुदयोन्मुखे' (८/३२४४) इति, 'महेभां- स्तापयत्यर्थः कुर्याद्भग्नरदान्विधु:’ (८/३३९२) इति च राजतरङ्गिणी. कवाटिनो गजा: राशि चन्द्रे.
[^</footnote>
<footnote text="A" mark="२] ">अगस्त्यः.
[^</footnote>
<footnote text="A" mark="३] ">लक्ष्मीगृहाणि.
[^</footnote>
<footnote text="A" mark="४] ">ब्रह्मा.
</footnote>
</page>
<verse text="A" n="23">येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले
दोर्मूले कुचमण्डले च कुरुते रङ्गं कुङ्गीदृशाम्॥२३॥
<verse text="A" n="24">शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे-
त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः।
तत्किं मीलितमम्बुजैर्विदलितं किं दन्ति[^१]दन्ताङ्कुरै-
र्भङ्ग: किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः॥२४॥
<verse text="A" n="25">झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां
क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः।
एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे
शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः॥२५॥
<verse text="A" n="26">येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो
यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः।
तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति-
र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः॥२६॥
<verse text="A" n="27">अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा-
त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः।
सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि[^२]-
स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥
<verse text="A" n="28">रोहत्सौरभविभ्रमाणि कमला[^३]सद्मानि पद्माकरे
पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु नुतिः।
तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि
त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः[^४]॥२८॥
[^
<footnote text="A" mark="१
कान्तै सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्ञयुदयोन्मुखे' (८/३२४४) इति, 'महेभां- स्तापयत्यर्थः कुर्याद्भग्नरदान्विधु:’ (८/३३९२) इति च राजतरङ्गिणी. कवाटिनो गजा: राशि चन्द्रे.
[^
<footnote text="A" mark="२
[^
<footnote text="A" mark="३
[^
<footnote text="A" mark="४
</page>