This page has been fully proofread once and needs a second look.

चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका-
न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु।
एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः
प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः॥१७॥
उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः
सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः।
एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं
तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः॥१८॥
शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः
पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः।
एवं का गणना तवाद्य हि रतावद्योतखद्योत हे।
दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः॥१९॥
अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते
तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः।
एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते
गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः॥२०॥
आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो
लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।
देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते
शङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥
कुन्दे दलितादरः सरसिजे संजातकौतूहल:
कल्हार कलितस्पृहः किमपरं यः केतके कौतुकी।
निर्माता किममर्त्यराजतरुणी लीलावतंसश्रियो
योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः॥२२॥
शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः
कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः।