This page has been fully proofread twice.

<page>
<verse text="A" n="10">
स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे

नीरोद्गारगभीर धीररसितप्रारम्भमम्भोधरः॥१०॥
 
</verse>
<verse text="A" n="11">
गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां

रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथा:।

भङ्गीमङ्गीकुरु रतिपतेर्मल्लि हे चूतवल्लि

प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः॥११॥
 
</verse>
<verse text="A" n="12">
अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै-

रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः[^१]।

दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे

प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः॥१२॥
 
 
</verse>
<verse text="A" n="13">
कांतिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य-

च्चञ्चचञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः।

तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना

तेनेदं रमणीकपोलफलके लावण्यमालोकितम्॥१३॥
 
 
</verse>
<verse text="A" n="14">
आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः

खेलन्हेलोन्मदमधुकरीमानसे मानसे यः।

भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले

स स्यादुत्कः परिमितजले पल्वले किं मरालः॥१४॥
 
 
</verse>
<verse text="A" n="15">
द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ

मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः।

लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां

भर्तुः कस्य कदा कियान्क्व नु ननु क्षोभो दृशोर्गोचरः॥१५॥
 
 
</verse>
<verse text="A" n="16">
गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे

कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु।

शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी-

मुर्वी वोढुं मदजलसरित्संगतो दिड्भतङ्गः॥१६॥
 
[^
</verse>
<footnote text="A" mark="
] ">'रगि गतौ'.</footnote>
</page>