This page has been fully proofread twice.

<page>
<verse text="A" n="4">
पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा

पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः।

देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां

भर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥
 
</verse>
<verse text="A" n="5">
उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्भलै-

र्नीलाम्भोजकुलैस्तथा विचकिलै: क्रान्तं च कान्तं च यत्।

तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा

मध्ये मुग्ध कुसुम्भमुम्भसि[^१] भवेन्नैवैष युक्तः क्रमः॥५॥
 
 
</verse>
<verse text="A" n="6">
यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवं

यत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः।

पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल-

भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम्॥६॥
 
</verse>
<verse text="A" n="7">
केनात्र कर्कशकरीरवनान्तराले

बाले बलाद्बकुलकन्दलि रोपितासि।

यत्राप्नुयुर्मधुलिहस्तव कोमलानि

नो कुड्भलानि न दलानि न कन्दलानि॥७॥
 
</verse>
<verse text="A" n="8">
धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो

येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी।

तेषां पुण्ड्रक[^२]काण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां

किं मुग्धाः करभा मुधैव विरसा विन्दन्ति निन्दन्ति च॥८॥
 
 
</verse>
<verse text="A" n="9">
मद्गुमाद्यति यत्र यत्र भजते भङ्गिं बको यत्र स

क्रौञ्च: किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः।

आस्ते बालमरालसालसलसद्दिक्कुञ्जरं पार्वती-

कर्णोत्तंसितकाञ्चनाब्जलमुकुलं यन्मानसं ते सरः॥९॥
 
</verse>
<verse text="A" n="10" merge-next="true">
श्रीसंकेतनिकेत केतक कुरु त्वं कुड्भलाडम्बरं

हे नीप स्मरदीप दीपय तनौ टङ्कं नवैरङ्कुरै:।
 
[^
</verse>
<footnote text="A" mark="
] ">‘उम्भपुरणे’.
[^
</footnote>
<footnote text="A" mark="
] ">पुण्ड्रक इक्षुभेद:.
</footnote>
</page>