This page has been fully proofread twice.

<page>
<subtitle>
महाकविश्रीशुंभविरचिता
 
</subtitle>
<title>
अन्योक्तिमुक्तालता
 
</title>
<verse text="A" n="1">
मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा

मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः।

प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु-

र्बन्धूकप्रियबान्धवो धवलित[^२]श्यामाधवो माधवः॥१॥
 
</verse>
<verse text="A" n="2">
हेलाक्रान्त[^३]हरिन्ति कुन्तलवधूवेणीहरिन्ति[^४] स्फुटं

भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः।

पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-

रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥
 
</verse>
<verse text="A" n="3">
सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे

संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।

यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-

लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥
 
[^
</verse>
<footnote text="A" mark="
] ">अस्माच्छ्लोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम्।

यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तकेषु

तु न प्रोक्तः.
[^
</footnote>
<footnote text="A" mark="
] ">मेघराहित्यादुज्ज्वलीकृतचन्द्रः.
[^
</footnote>
<footnote text="A" mark="
] ">हेलयाक्रान्तदिङमण्डलानि.
[^
</footnote>
<footnote text="A" mark="
] ">श्या-मवर्णानि.
[^
</footnote>
<footnote text="A" mark="
] ">आरम्भम्. 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी-

यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.
[^
</footnote>
<footnote text="A" mark="
] ">समीचीनानि.
</footnote>
</page>