This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="102">
उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका

नास्मिन्कोमलकुड्भला विचकिला नोद्दीपकाश्चम्पकाः।

तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदर्भों मरो

मार्ग: पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः॥१०२॥
 
</verse>
<verse text="A" n="103">
वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथा

कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः।

तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते

खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः॥१०३॥
 
</verse>
<verse text="A" n="104">
एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-

रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः।

केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि

द्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः॥१०४॥
 
</verse>
<verse text="A" n="105">
साश्चर्या : सरसाश्च सन्ति सरितः पाथः[^१] पतिप्रेयसि

क्षोणी विभ्रम वैजयन्ति तदपि त्वां ताम्रपर्णि स्तुमः।

खच्छे निर्जितनारिकेलसलिलखादिम्नि यद्वारिणि

प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः॥१०५॥
 
</verse>
<verse text="A" n="106">
इयं यदि रदच्छदच्छविरपाटला[^२] पाटला

नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम्।

किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः

क्व न भ्रमरयोषितां गलदहंकृतिर्हुकृति:॥१०६॥
 
</verse>
<verse text="A" n="107">
उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी

हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः।

अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे

पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः॥१०७॥
 
</verse>
<verse text="A" n="108" merge-next="true">
या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचि-

र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः।
 
[^
</verse>
<footnote text="A" mark="
] ">हे समुद्रपत्नि.
[^
</footnote>
<footnote text="A" mark="
] ">पुष्पविशेषः
</footnote>
</page>