This page has not been fully proofread.

७८
 
काव्यमाला ।
 
उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका
नास्मिन्कोमलकुमला विचकिला नोद्दीपकाश्चम्पकाः ।
तर्दिक मुग्ध मुधैव दग्घसिकतागर्भः सदर्भों मरो
 
मर्मिः पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः ॥ १०२ ॥
वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथा
कर्णोत्तंसकथा न काचन न च स्रुग्दामनामग्रहः ।
तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते
 
खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः ॥ १०३ ॥
एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-
रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः ।
केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि
 
द्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः ॥ १०४ ॥
साश्चर्या : सरसाश्च सन्ति सरितः पाथः पतिप्रेयसि
 
क्षोणी विभ्रम वैजयन्ति तदपि त्वां ताम्रपर्णि स्तुमः ।
खच्छे निर्जितनारिकेलसलिलखादिम्नि यद्वारिणि
 

 
प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः ॥ १०५ ॥
इयं यदि रदच्छदच्छविराटला पाटला
 
नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम् ।
किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः
 
क्व न अमरयोषितां गलदहंकृतिकृतिः ॥ १०६ ॥
उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी
 
हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते पशुपतिष्लष्टस्य जीवार्पणे
 
पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ १०७ ॥
या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचि-
य नीलाम्बुरुहच्छदे मृदुमरुत्प्रेलिते विनमः ।
१. हे समुद्रपत्नि. २. पुष्पविशेषः