2025-12-15 03:21:43 by akprasad
This page has been fully proofread once and needs a second look.
<verse text="A" n="95">किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते
वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम्॥९५॥
<verse text="A" n="96">यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-
माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः।
तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं
नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः॥९६॥
<verse text="A" n="97">माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं
मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव।
तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर[^१]
स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम्॥९७॥
<verse text="A" n="98">अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं
वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः।
हा धिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे
प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विप्लव:॥९८॥
<verse text="A" n="99">तापातङ्कं कलय विलयं याहि हे दुर्निवारं
वारं वारं विगलितगतिर्नेह दाहं सहेथाः।
दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो
नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः॥९९॥
<verse text="A" n="100">यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां
तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः।
साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया
पौलोम्या[^२] निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥
<verse text="A" n="101">लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं
किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः।
तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-
लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥
[^
<footnote text="A" mark="१
[^
<footnote text="A" mark="२
</page>