Proofing

✦

This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।
 

किं कुर्मस्तदमुत्र पामरपुरे सैरंध्ररि दूरेऽस्तु ते

वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम् ॥ ॥९५ ॥
॥
 
यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-

माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः ।

तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं

नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः ॥ ॥९६ ॥
॥
 
माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं
 

मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव ।

तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर
 
[^१]
स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम् ॥ ॥९७ ॥
॥
 
अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं

वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः ।

हा घिधिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे

प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विष्ठः ॥ प्लव:॥९८ ॥
॥
 
तापातङ्कं कलय विलयं याहि हे दुर्निवारं
 

वारं वारं विगलितगतिर्नेह दाहं सहेथाः ।

दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो
 

नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः ॥ ॥९९ ॥
॥
 
यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां
 

तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः ।

साम्ये यश्चलकेलिकङ्कणरणत्काराङ्कगदोर्लेखया
 
७७
 

पौलोम्या[^२] निहितालवालपयसः कल्पद्रुमस्य क्षमः ॥ ॥१०० ॥
॥
 
लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेक भेकखस्वरं
 

किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः ।

तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-

लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः ॥ ॥१०१ ॥
 
॥
 
[^१] गच्छ.
[^
२.] इन्द्राण्या.
 
१. गच्छ.