2025-12-15 03:21:43 by akprasad
This page has been fully proofread once and needs a second look.
<verse text="A" n="90">एतन्न पश्यथ मुखं मदिरे[^१]क्षणानां
यस्मिन्स किंकरति कैर[^२]विणीकुटुम्बः॥९०॥
<verse text="A" n="91">न कुन्दं सामोदं जनयति मुदं नैव कुमुदं
न सारं कह्लारं कुसुमतिलकं नैव तिलकम्।
उदात्तं निर्धूतं न च कमलमावर्जकमलं
तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम्॥९१॥
<verse text="A" n="92">निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः
शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः।
हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं
लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः॥९२॥
<verse text="A" n="93">वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां
खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः।
व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-
दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः॥९३॥
<verse text="A" n="94">कंचित्कालं नय गिरिगुहागह्लरे रे मुधैव
क्रीडन्हालाहलरसलसद्दर्प मा सर्प[^३] सर्प।
माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले
येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः॥९४॥
<verse text="A" n="95" merge-next="true">चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे
कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु[^४] यत्कौतुकम्।
[^
<footnote text="A" mark="१
लोचना। दृष्टिर्विकसितापाङ्गा मदिरा तरुणे।।' इति हरविजयटीकायामलकरा-
जानकः, 'तथा संगीतकलिकायाम् – 'सौष्ठवेन परित्यक्ता स्मेरापाङ्गमनोहरा। वेपमा-
नान्तरा दृष्टिर्मदिरा परिकीर्तिता॥' इति ( १८७९ मितख्रिस्त संवत्सरमुद्रित-विक्र-
मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर-पाण्डुरङ्ग-पण्डित:. मल्लिनाथस्तु ( रघुवंशटीकायाम्
८/६८ ) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि 'नार्यो मदिरलोचनाः' इत्यादि-
प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति.
[^
<footnote text="A" mark="२
[^
<footnote text="A" mark="३
[^
<footnote text="A" mark="४
</page>