This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="84">
मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां

विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः॥८४॥
 
</verse>
<verse text="A" n="85">
हंस भ्राम्यदनेक भेकशबले पङ्काविले पल्वले

युक्तास्ते किमसारवारिणि रणत्कौञ्चाकुले केलयः।

तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं

वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः॥८५॥
 
</verse>
<verse text="A" n="86">
कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी

तं विक्रेतुमिहासि[^१] यासि किमहो हारं विहारं श्रियः।

एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां

यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः॥८६॥
 
</verse>
<verse text="A" n="87">
लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं

यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः।

तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-

र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः॥८७॥
 
</verse>
<verse text="A" n="88">
यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं

यस्य स्यात्कुचकुड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम्।

नेदं तस्य जनैकनन्दन सहे हे चन्दन क्वापि ते

मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः॥८८॥
 
</verse>
<verse text="A" n="89">
बालैः पञ्चशरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः

शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्क[^२]कारः स्मरः।

सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके

तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः॥८९॥
 
</verse>
<verse text="A" n="90" merge-next="true">
मुग्धा वृथा कुमुदिनीरमणे चकोराः

को राग एष जडिमाग्लपिता मतिर्वः।
 
[^
</verse>
<footnote text="A" mark="
] ">त्वम्.
[^
</footnote>
<footnote text="A" mark="
] ">'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां ( १/४३) जोनराजः.
</footnote>
</page>