Proofing

✦

This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।
 

मिथ्या बिभ्रत्कनकनिकषस्निग्ध सौन्दर्यलेखां

विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ॥८४ ॥
॥
 
हंस भ्राम्यदनेक भेकशबले पङ्काविले पल्वले

युक्तास्ते किमसारवारिणि रणत्कौञ्चचाकुले केलयः ।

तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं

वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः ॥ ॥८५ ॥
॥
 
कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी
 

तं विक्रेतुमिहौहासि[^१] यासि किमहो हारं विहारं श्रियः ।

एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां
 

यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः ॥ ॥८६ ॥
॥
 
लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं
 

यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः ।

तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-

र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः ॥ ॥८७ ॥
॥
 
यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं
 

यस्य स्यात्कुचकुडूड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम् ।

नेदं तस्य जनैकनन्दन सहे हे चन्दन काक्वापि ते
 

मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः ॥ ॥८८ ॥
॥
 
बालैः पञ्चशरीरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः
 

शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्क[^२]कारः स्मरः ।

सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके

तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः ॥ ॥८९ ॥
॥
 
मुग्धा वृथा कुमुदिनीरमणे चकोराः
 

को राग एष जडिमाग्लपिता मतिर्वः ।
 

 
[^
१. ल] त्वम्.
 

[^
२.] 'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां ( १९/४३) जोनराजः.