Proofing

✦

This page has been fully proofread once and needs a second look.

७४
 
काव्यमाला ।
 

हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं

वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः ।

किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽघरः
 

सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः ॥ ॥७८ ॥
॥
 
लीलोद्यानतलेsपि केsपि तरवो निष्कान्तयः किं तु ते

निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह ।

कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
 

छाया सैव स एव सौरभमभरस्ता एव पुष्पश्रियः ॥ य:॥७९ ॥
॥
 
कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
 

झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे ।

दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
 

हेलैव प्लवगमप्रभोः कृतजगत्पारिठो विष्ठवः ॥ प्लवो विप्लव:॥८० ॥
॥
 
मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
 

चूडामूले सितकरकले कल्पितोऽयं निवासः ।

यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं

तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति ॥ ॥८१ ॥
॥
 
वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्रगतं
 

दरर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम् ।

तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-

प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः ॥ ॥८२ ॥
॥
 
कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-

मूवर्वीमेष बिभर्ति[^२] सागरसरिदुद्गर्वी गिरिग्रामणीः ।

लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
 

चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ॥ ॥८३ ॥
॥
 
लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
 

केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः ।
 

 
[^१] हनुमतः.
[^
२.] महीधरत्वात्.
 
१. हनुमतः.