This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="71">
शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-

स्तैर्मल्ली मुकुलैरमीलि दहनक्लान्ते वनान्ते यतः॥७१॥
 
</verse>
<verse text="A" n="72">
कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं

निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः।

सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा

पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः॥७२॥
 
</verse>
<verse text="A" n="73">
येन प्राप्तः सुरभितककुष्कंदरः कोऽप्युदारो

मन्दारोऽपि भ्रमररमणीदत्तरागः परागः।

स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-

दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत्॥७३॥
 
</verse>
<verse text="A" n="74">
यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि

न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः।

एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना

निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः॥७४॥
 
</verse>
<verse text="A" n="75">
दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं

प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत्।

सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा

साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः॥७५॥
 
</verse>
<verse text="A" n="76">
बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः

कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः।

तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति-

स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः॥७६॥
 
</verse>
<verse text="A" n="77">
मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं

मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः।

स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः

कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः॥७७॥
</verse>
</page>