Proofing

✦

This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।

शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-

स्तैर्मल्ली मुकुललैरमीलि दहनक्कालान्ते बवनान्ते यतः ॥ ॥७१ ॥
॥
 
कान्तिलोंर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं
 

निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि हाह्लादकः ।

सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा

पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ॥ ॥७२ ॥
॥
 
येन प्राप्तः सुरभितककुप्ष्कंदरः कोऽप्युदारो

मन्दारोऽपि भ्रमररमणीदत्तरागः परागः ।

स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-

दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत् ॥ ॥७३ ॥
य
॥
 
यद्
गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि
 

न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः ।

एतल्कित्किं तु कथं सहेमहि महद्दुःखं यदत्रामुनामुना
 

निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः ॥ ॥७४ ॥
॥
 
दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं
 

प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत् ।

सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा
 

साश्चर्ययं निरमाययि हेम कमल त्वय्येव तुभ्यं नमः ॥ ॥७५ ॥
॥
 
बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः

कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः ।

तत्किंचिन्नयनाञ्जनं रतिपतिहाह्लादप्रदा सा गति-

स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः ॥ ॥७६ ॥
॥
 
मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
 

मा मा मालिक मल्लिकास्रजमपि काक्वापि त्वमुन्मुद्रयेः ।
स

स्र
ग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
 

कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः ॥ ॥७७ ॥
 
७३
 
॥