2025-12-15 03:21:43 by akprasad
This page has been fully proofread once and needs a second look.
<verse text="A" n="65">यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो
नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः[^१]॥६५॥
<verse text="A" n="66">मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं
मल्लीलीलां सरसिजरसं केतकीकौतुकं च।
जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां
कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः॥६६॥
<verse text="A" n="67">उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि
व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे।
यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले
सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः॥६७॥
<verse text="A" n="68">अङ्गाट्ट[^२]ङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं
सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम्।
उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं
जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः॥६८॥
<verse text="A" n="69">आनीतैरिषुकार कारणमिह श्लाघ्यै किमेभिः शरैः
प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि।
दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं
धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः॥६९॥
<verse text="A" n="70">यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो
यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः।
तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर
त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लज्जितः॥७०॥
<verse text="A" n="71" merge-next="true">त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-
न्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम्।
[^
<footnote text="A" mark="१
[^
<footnote text="A" mark="२
</page>