This page has been fully proofread once and needs a second look.

૭૨
 
काव्यमाला ।
 

यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो

नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः[^१]॥६५

 
मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं

मल्लीलीलां सरसिजरसं केतकीकौतुकं च

जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां
 

कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः६६

 
उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि

व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे

यासि क्कावापि मरालबालक बकक्रौञ्चाविले पल्वले
 
सङ्घ

सह्य
न्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः६७

 
अङ्गाट्ट[^२]ङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं
 

सर्वां किं च निषिश्ञ्च चन्दनरसस्यन्दैरमन्दै स्तनुम्

उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं

जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः६८

 
आनीतैरिषुकार कारणमिह ाध्यैः श्लाघ्यै किमेभिः शरैः
 

प्रख्यातामपि किं : पामरपुरीमेतां पुरः पश्यसि

दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं
 

धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः६९

 
यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो
 

यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः

तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर
 

त्वं मेनाक जवाज्जले जलनिघेधेर्मज्जन्न किं लज्जितः७०

 
त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-
कहा

न्कह्ला
रे निवसन्मधुव्रते पतन्नङ्केऽपि पढेङ्केरुहाम्
 

 
[^
.] 'मयूरो बर्हिणो बहीं' इत्यमरः.
[^
.] क्षुद्रशस्त्रविशेषेण.