Proofing

✦

This page has been fully proofread once and needs a second look.

૭૨
 
काव्यमाला ।
 

यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो

नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः ॥ [^१]॥६५ ॥
॥
 
मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं

मल्लीलीलां सरसिजरसं केतकीकौतुकं च ।

जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां
 

कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः ॥ ॥६६ ॥
॥
 
उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि

व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे ।

यासि क्कावापि मरालबालक बकक्रौञ्चाविले पल्वले
 
सङ्घ

सह्य
न्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः ॥ ॥६७ ॥
॥
 
अङ्गाट्ट[^२]ङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं
 

सर्वां किं च निषिश्ञ्च चन्दनरसस्यन्दैरमन्दै स्तनुम् ।

उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं

जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः ॥ ॥६८ ॥
॥
 
आनीतैरिषुकार कारणमिह ाध्यैः श्लाघ्यै किमेभिः शरैः
 

प्रख्यातामपि किं :न पामरपुरीमेतां पुरः पश्यसि ।

दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं
 

धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ॥६९ ॥
॥
 
यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो
 

यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः ।

तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर
 

त्वं मेनाक जवाज्जले जलनिघेधेर्मज्जन्न किं लज्जितः ॥ ॥७० ॥
॥
 
त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-
कहा

न्कह्ला
रे निवसन्मधुव्रतेत पतन्नङ्केऽपि पढेङ्केरुहाम् ।
 

 
[^
१.] 'मयूरो बर्हिणो बहीं' इत्यमरः.
[^
२.] क्षुदद्रशस्त्रविशेषेण.