This page has not been fully proofread.

૭૨
 
काव्यमाला ।
 
यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो
नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः ॥ ६५ ॥
मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं
मल्लीलीलां सरसिजरसं केतकीकौतुकं च ।
जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां
 
कान्तां किं तु श्रयति रचयपञ्चमं चञ्चरीकः ॥ ६६ ॥
उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि
व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे ।
यासि क्कापि मरालबालक बकक्रौञ्चाविले पल्वले
 
सङ्घन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः ॥ ६७ ॥
अङ्गाङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं
 
सर्वां किं च निषिश्च चन्दनरसस्यन्दैरमन्दै स्तनुम् ।
उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं
जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः ॥ ६८ ॥
आनीतैरिषुकार कारणमिह ाध्यैः किमेभिः शरैः
 
प्रख्यातामपि किं : पामरपुरीमेतां पुरः पश्यसि ।
दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं
 
धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ६९ ॥
यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो
 
यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः ।
तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर
 
त्वं मेनाक जवाजले जलनिघेर्मज्जन्न किं लज्जितः ॥ ७० ॥
त्वं कालं नय कैरवेऽत्र विहरँलीलारविन्दे रस-
कहारे निवसन्मधुव्रते पतन्नकेऽपि पढेरुहाम् ।
 
१. 'मयूरो बर्हिणो बहीं' इत्यमरः. २. क्षुदशस्त्रविशेषेण.