Proofing

✦

This page has been fully proofread once and needs a second look.

७१
 
अन्योक्तिमुक्तालता ।
 

यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के
 

येन स्थाणोरुरसि रहितो हारवल्लीविलासः ॥ ॥५९ ॥
॥
 
यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरदुद्रुमै-

रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति ।

तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः

सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः ॥ ॥६० ॥
॥
 
द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः

क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः ।

उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि

प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः ॥ ॥६१ ॥
॥
 
चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं

सङ्गं दूरीकुरु कुरबके केतके मा निषीद ।

लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-

र्यत्ते दैवात्परिसरगतः पारिजातः स जातः ॥ ॥६२ ॥
॥
 
पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-

च्छायाभिः शिशिराः खरातपविपत्न्निर्वापिका वापिकाः ।

माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते
 
ब्रूमः
 

तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः ॥ ॥६३ ॥
॥
 
ब्रूमः
किंचन जहुह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः

पाथो[^१]धाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः ।

यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त
 
-
त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः ॥ ॥६४ ॥
॥
 
ये तावन्ति पेपयः[^२] पृषन्ति जलदादत्यन्तमुत्कण्ठिता

याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः ।
 

 
[^
१.] समुद्रे.
[^
२] जलकणान्. जलकणान्.