Proofing

✦

This page has been fully proofread once and needs a second look.

VO
 
काव्यमाला ।
 

कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति

प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत् ।

तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं

कंदर्पैक विलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ ॥५३॥
॥
 
कंदर्पैककृपाणवल्लर बरि वने कमादकस्मादियं
 

हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः ।
सच

सह्य
न्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः

कान्तैः कान्तपुरंभ्ध्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ॥५४ ॥
॥
 
लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः

कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः ।

सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो
 

हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ॥५५ ॥
॥
 
ऊढापि द्यु[^१]तरङ्गिणि त्रिजगतीवन्द्येन तेनाप्य[^२]हो
 

मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।

तारक्षारकरं करालमकरं सश्वभ्रमअंभ्रकषं
 

मुग्धे जाड्यनिधिधिं मुघा जलनिधिं यातासि चित्राः स्त्रियः ॥५६॥

 
नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं
 

कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः ।

पाने मज्जनकर्मनर्मणि तथा बाबैह्यैरलं वारिघे
 
धे
कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः ॥ ॥५७ ॥
॥
 
कान्तिर्य:स्य विनिद्रनीलनलिनच्छायासखी सुनुभ्रुवां
 

यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः ।

अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः
 

पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः ॥ ॥५८ ॥
॥
 
एतैर्जतैःजातै: किमिह बहुभिर्मोभोगिभिःभि: किं तु मन्ये
 

मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
 

 
[^
१.] हे गङ्गे.
[^
२.] शिवेन.