This page has not been fully proofread.

VO
 
काव्यमाला ।
 
कुन्दे नन्दति कैरवे विहरते परुहे रोहति
प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत् ।
तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं
कंदर्पैक विलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ ५३॥
कंदर्पैककृपाणवल्लर बने कमादकस्मादियं
 
हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः ।
सचन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः
कान्तैः कान्तपुरंभ्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ५४ ॥
लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः
कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः ।
सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो
 
हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ५५ ॥
ऊढापि युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो
 
मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।
तारक्षारकरं करालमकरं सश्वभ्रमअंकषं
 
मुग्धे जाड्यनिधि मुघा जलनिधिं यातासि चित्राः स्त्रियः ॥५६॥
नीरं नीरसमस्तु कौमिति तत्पाथो वरं मारवं
 
कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः ।
पाने मज्जनकर्मनर्मणि तथा बाबैरलं वारिघे
 
कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः ॥ ५७ ॥
कान्तिर्य:य विनिद्रनीलनलिनच्छायासखी सुनुवां
 
यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः ।
अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः
 
पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः ॥ ५८ ॥
एतैर्जतैः किमिह बहुभिर्मोगिभिः किं तु मन्ये
 
मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
 
१. हे गङ्गे. २. शिवेन.