This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="47">
अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-

र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः।

एषा वैकटिक[^1] स्फुटैव पुरतः सा पामराणां पुरी

यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः॥४७॥
 
</verse>
<verse text="A" n="48">
यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां

धत्ते धैर्यधुरां जगत्र्त्रयजयस्मेर: स येन स्मरः।

तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं

नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम्॥४८॥
 
</verse>
<verse text="A" n="49">
यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः

को वैरिञ्च[^२] विमानहंस भवतस्तस्मिन्निवासग्रहः।

यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि

स्वच्छन्दं तव सिद्धसिन्धु[^3]सलिले तत्रोचिताः केलयः॥४९॥
 
</verse>
<verse text="A" n="50">
वापीं दूरे किरति कुरुते नो मृणालीषु लीलां

नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम्।

किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः

क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः॥५०॥
 
</verse>
<verse text="A" n="51">
शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-

रस्फोटि स्फटिकामल: करटिनां[^४] यस्मिन्नवाप्तोदये।

तं दृष्ट्वैव कुरङ्ग[^५]केतनमहो मुग्धः स दुग्धाम्बुधिः

किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः॥५१॥
 
</verse>
<verse text="A" n="52">
तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो

यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात्।

युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे

त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम्॥५२॥
 
[^
</verse>
<footnote text="A" mark="
] ">हे रत्नवणिक्.
[^
</footnote>
<footnote text="A" mark="
] ">हे ब्रह्मदेववाहन हंस.
[^
</footnote>
<footnote text="A" mark="
] ">गङ्गाजले.
[^
</footnote>
<footnote text="A" mark="
] ">हस्तिनाम्.
[^
</footnote>
<footnote text="A" mark="
] ">चन्द्रम्.
</footnote>
</page>