Proofing

✦

This page has been fully proofread once and needs a second look.

६८
 
काव्यमाला ।
 

यस्य भ्राम्यन्मकर निकरक्कालान्तमूर्तेरसार-

स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः ।

तत्ते पाथः पवनजनितोत्तालकल्लोलजालं
 

ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन ॥ ॥४१ ॥
॥
 
निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः

संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः !.
।
किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु काक्वापि ते
 

किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः ॥ ॥४२ ॥
॥
 
नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दै स्तथा चान्दनै-
निःस्यन्दैः

र्नि:स्यन्दै:
सह वालवालवलये युक्तो निषेकक्रमः ।

आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः
 

संनद्धो यदयं निबद्धजगतीदाहमग्रहोऽवग्रहः ॥ ॥४३ ॥
॥
 
केलिं कल्पय कोलंल[^२]बाल लवलीवल्लीदलान्याहर-

नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम् ।

म्लानिं मुखञ्च मयूर दूरय भयं दर्पाश्ञ्चितःत: पञ्चतां

युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः ॥ ॥४४ ॥
॥
 
कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्युमुन्द्रित
 
तं
यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः ।

तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-

भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः ॥ ॥४५ ॥
॥
 
खेलद्वालमृगाक ङ्कमौलिरमणीदोः कन्दलान्दोलिते
 

पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः ।

हा जम्बालकदम्बचुम्बिनि मदभाभ्राम्यद्वकालम्बिनि
 

भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः ॥ ॥४६ ॥
 
॥
 
[^
१.] नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाइश्मीरादिनिरादरं

मलयजाळेपावलेपावहृलेपावहम्' इति स्तुतिकुसुमाञ्जलौ ( ३३।६ ) जगद्धरः 'नासीररं धनसारः'

इति तहीट्टीकायां रत्नकण्ठः .
[^
२.] सूकरशिशो.
[^
३] त्वम्. त्वम्.