This page has been fully proofread twice.

<page>
<verse text="A" n="35">
एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता

मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च।

किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-

लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः॥३५॥
 
</verse>
<verse text="A" n="36">
सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां

नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम्।

वारंवारमुदारवारणरणव्यापारपारंगमो

दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः॥३६॥
 
</verse>
<verse text="A" n="37">
यत्केलिमन्थरमरालमराल[^१]बाल-

शेवालकोमलमलं विमलं मृणालैः।

तत्पश्य शुष्यति सरः प्रसरत्तुषार-

रुद्धं विरुद्धविधिरेव विधिः किमन्यत्॥३७॥
 
</verse>
<verse text="A" n="38">
त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो

रोलम्बाकुलकम्प्रकुड्भलकुलल्कान्तो न कः केतकः।

दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -

र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः॥३८॥
 
</verse>
<verse text="A" n="39">
रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः

कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः।

तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः

स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः॥३९॥
 
</verse>
<verse text="A" n="40">
वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-

मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम्।

देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः

पश्योदेति समुद्र मुद्रिततमस्तोमस्तमी[^२]वल्लभः॥४०॥
 
[^
</verse>
<footnote text="A" mark="
] ">कुटिल.
[^
</footnote>
<footnote text="A" mark="
] ">चद्रः.
 
</footnote>
</page>