Proofing

✦

This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।
 

एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता

मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च ।

किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-

लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः ॥ ॥३५ ॥
॥
सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां

नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम् ।

वारंवारमुदारवारणरणव्यापारपारंगमो

दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः ॥ ॥३६ ॥
॥
यत्केलिमन्थरमरालमैमराल[^१]बाल-

शेवालकोमलमलं विमलं मृणालैः ।

तत्पश्य शुष्यति सरः प्रसरत्तुषार-

रुद्धं विरुद्धविधिरेव विधिः किमन्यत् ॥ ॥३७ ॥
॥
त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो

रोलम्बाकुलकम्प्रकुङ्मलकुलक्लाड्भलकुलल्कान्तो न कः केतकः ।

दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -

र्
दूरं येन गतो गलत्कमलिनीलीलारसः सारसः ॥ ॥३८ ॥
॥
रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः
 

कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः ।

तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः
 

स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः ॥ ॥३९ ॥
॥
वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-

मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम् ।

देवः कीरपुरंधिध्रिहारलतिकाकारैरुदारैः करैः
 

पश्योदेति समुद्र मुद्रिततमस्तोमस्तैतमी[^२]वल्लभः ॥ ॥४० ॥
 
॥
 
१. कुटिल. २. चद्रः.