2025-04-20 14:32:19 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
६१
livest, the fruit of thy sordid anger; happiness shall never
more come to thee; and thy tears shall be thy sole
refuge. (48)
हे चपलहृदगे चञ्चलचित्ते । अत्र चपलेत्यनेनाविमृश्यकारित्वं विवक्षितम् ।
तथा तेन प्रकारेण प्रेमीद्रद्रः अत्यन्तमार्द्रः सरसः प्रियो वल्लभः गृहं भवन-
मागतः प्राप्तश्चरणपतितः पादप्रणतः सन् स्वातन्त्र्यात् स्वच्छन्दत्वात् किं
समुपेक्षितः किमर्थमवधीरितः । तत् तस्मात्कारणात् अधुना इदानीं
यावज्जीवं जीवितावधि निरस्तसुखोदया अपाकृतसुखप्राप्तिः रुदितशरणा
रोदनालम्ब सती दुर्जातानां दुष्टानां रुषां रोषाणां इद फलं विपाकं सहस्व
मृष्यस्वेति सम्बन्धः । नायिका स्वीया मध्या च । किं च कलहान्तरिता ।
यथोक्तं भारतीये - सेयः कलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सा
पश्चात्तापसंप्राप्ता कलहान्तरिता भवेत् ॥ चिन्तानिश्वासखेदैश्च हत्तापा-
भिनयेन च । सखीनां संप्रलापैरप्यात्मावस्थावलोकनैः । मुग्धा दैन्याश्रुपातैश्च
रोगस्यागमनेन च ॥ विभूषणतनुत्वेन दुःखेन रुदितेन च । खण्डिता
विप्रलब्धा च कलहान्तरितापि वा ॥ तथा प्रोषितकान्ता च भावैरेवं प्रयो-
जितेति ॥ नायकः शठः । सोपालम्भवचन नर्म । आक्षेपोऽलंकारः
( ? ) D explains प्रणयेनात्यन्तद्रवीभूत इत्यर्थः ।
( २ ) D,
adds सख्युपदेशं विना इत्यर्थः । ( १ ) D यावज्जीवं निरस्तः अपाकृतः
सुखस्य उदयः प्राप्तिः यस्याः सा तथोक्ता । ( ४ ) Mg रोदनालम्बना;
रोदनमेव शरणं यस्याः सा तथाविधा सती ( ५ ) D,, D2, D3
मर्षयस्व ; Mg मर्षय; Mt क्षमस्व ( ६ ) D. मुग्धा
प्रयोजयेदिति
DA
नायकोक्तिः
नभसि जलदलक्ष्मी साखया वीक्ष्य दृष्ट्या
प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् ।
मम पदमवलम्ब्य प्रोल्लिखन्ती धरित्रीं
यदनुकृतवती सा तत्र वाचो निवृत्ताः ॥ ४९ ॥
( ७ ) Mt