This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
---
 
नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो
 
यो दीर्घे दिवसं विषह्य हृदये यत्नात्कथंचिद् धृत १०
अन्योन्यस्य हृते मुखे विहितयोस्तिर्यक् कथंचिद् दशोः
 
संभेदे सपदि स्मितव्यतिकरे मानो विहस्योज्झितः ॥ ३७ ॥
( C ) D2, D, मुखे हृते ; De, U निहितयो ०
 
Not mollified by conciliatory words, not given up at the
request of dear friends, the sense of resentment was-some-
how nursed in the heart during the whole of the tedious day;
but when their sidelong glances, somehow resting upon
their mutually averted faces, met together in smiling en-
counter, they laughed aloud and forgot their resentment.
 
(37)
 
यो मानः अनुनयेन प्रार्थनया सखीनामिति शेषः । नापेतः नापगतः ।
किं च यः प्रियसुहृद्वोक्यैः प्रियस्य सुहृदः प्रियसुहृदः तेषां वाक्यैर्वचनैर्न संहृतः
न समर्पितः । यो दीर्घमायतं दिवसं दिनम् । कालाध्वनोरत्यन्तसंयोग इति
द्वितीया । चित्र सहित्वा यत्नात् प्रयत्नात् हृदये हृदि कथंचिद् धृतः कृच्छ्रेण
धारितः । स मानः अन्योन्यस्य परस्परस्य मुखे वदने हृते आकृष्टे पराकृते
सति इत्यर्थः । कथंचित् केनापि प्रकारेण तिर्यक् तिरश्चीनं यथा भवति तथा
विहितयोः कृतयोः दृशोः दृष्टयोः संभेदे सङ्गमे सति स्मितव्यतिकरे स्मितस्य
ईषद्धसितस्य व्यतिकरे संबन्धे सति उभयोर्मुखविकासे सतीत्यर्थः । सपदि
सद्यो विहस्य हासं कृत्वा मानः प्रणयकोपः उज्झितो विसृष्टं इति संबन्ध: ।
अत्र कोपँभावशान्तिः । नायिका स्वीया मध्या च । नायकोऽनुकूलः । मानानन्तरं
संभोगशृङ्गारः । चेष्टाकृतं सङ्गेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः ।
 
( १ ) D, explains प्रियसंबन्धिबन्धुवचनैः न संहृतः ( २ ) Da
समाहितः ( ३ ) D♭ परावृत्ते ; D अवाक्कृते ; Bm_अपाकृते;
Mg पराकृष्टे (४) Do निहितयोः ; Bm हितयो: ( ५ ) D explains