This page has not been fully proofread.

४२
 
अमरुशतकम्
 
अत्र नायिका स्वीया धीरा प्रगल्भा च । किं च खण्डिता । नायकः शठः ।
विप्रलम्भशृङ्गारः । सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
 
( १ ) D,, D2, Dg प्रियं for नायकं and नायिका for प्रिया ।
D. सापराधं नायकं नायिका उपालभते ( २ ) D1, D2, D, • निर्वापणात् ;
D. • निर्हरणत्वात् ( ३ ) D2, D.,Ds, Bm, Mg,Mt रमणभीः ( ४ ) D,,
D2, Mg दुःखं क्लेशस्तिष्ठतु ; D, दुःखं सक्लेशं तिष्ठति ( ५ ) D.. Bm
धीराधीरप्रगल्भा च ( ६ ) Bm किंत्वपण्डिता
 
6
 
o
 
नायिका स्वजीवितं प्रत्याह-
 
प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रैरजस्त्रं गतं
 
धृत्या न क्षणमास्थितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं
 
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमुत्सृज्यते ॥ ३१ ॥
(b) Dg पुन: (c ) D3 गन्तुं
 
The bracelets have left, and after them go the tears,
my sweet companions, flowing incessantly; courage no
longer stays behind, and my mind has resolved to wander
ahead; all these depart with my beloved who is determined
on leaving. If thou must depart on a journey, dear life, do
not scorn the escort of thy dear friends. (31)
 
प्रियतमे यातुं प्रस्थातु निश्चितचेतसि सति । निश्चितं कृतनिश्चयम् । कर्तरि
निष्ठा । चतः चित्तं यस्य स तथोक्तः । तस्मिन् । वलयैः कङ्कणैः प्रस्थानं
प्रयाणं कृतम् । सद्यो विरहंकार्थ्यात् करभूषणानि गलितानीत्यर्थः । प्रियसखैः
प्रियमित्रैः अस्त्रैः नेत्रजलैः अजस्रं संततं गतं प्रयातम् । धृत्या धैर्येण क्षणं क्षणमात्रं
ने स्थितं, चित्तेन चेतसा पुरो अग्रतः गन्तुं व्यवसितं व्यवसायः कृतः ।
प्रियसखैरिति विशेषणं लिङ्गवचनव्यत्ययेन सर्वत्र योजनीयम् । एवं सर्वैः
समस्तैः वलयादिभिः समं सह युगपदित्यर्थः । प्रस्थितं गमनं कृतम् । हे